1. आरग्वधादिरित्येष गणः श्लेष्मविषापहः । मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः II
2. वीरतर्वादिरित्येष गणो वातविकारनुत् । अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः I
3. ऊषकादिः कफं हन्ति गणो मेदोविशोषणः । अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ।
4. कंटकपंचमूल व वल्लीपंचमूल- मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत् I
5. एलादिको वातकफौ निहन्याद्विषमेव च I वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ।I
6. एतौ वचाहरिद्रादि गणौ स्तन्यविशोधनौ। आमातिसारशमनौ विशेषाद्दोषपाचनौ ।।
7. काकोल्यादिरयं पित्तशोणितानिलनाशनः।जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा II
8. सारिवाऽऽदिः पिपासाघ्नो रक्तपित्तहरो गणः । पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ।।
9. वचाहरिद्रादि गणौ-आमातिसारशमनौ
10. गणौ पियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ
11. त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी । चक्षुष्या दीपनी चैव विषमज्वरनाशनी ।।